Shree Durga Kavach (देवी दुर्गा कवच) एक अत्यंत शक्तिशाली वैदिक स्तोत्र है, जो माँ दुर्गा की दिव्य कृपा और पूर्ण सुरक्षा प्रदान करता है। यह कवच मार्कण्डेय पुराण के अंतर्गत चण्डी पाठ का महत्वपूर्ण अंग माना जाता है।
“ॐ अस्य श्रीचण्डीकवचस्य ब्रह्मा ऋषि” से प्रारंभ होने वाला यह कवच, साधक के शरीर, मन और आत्मा की चारों दिशाओं से रक्षा करता है।
दुर्गा कवच का नियमित पाठ नकारात्मक शक्तियों, भय, रोग, शत्रु बाधा और मानसिक तनाव से मुक्ति दिलाता है। यह स्तोत्र माँ दुर्गा के सभी रूपों का आवाहन कर साधक को एक अदृश्य आध्यात्मिक कवच से सुरक्षित करता है।
🌺 Shree Durga Kavach Path Ke Labh (दुर्गा कवच पाठ के लाभ)
🔹 1. पूर्ण सुरक्षा कवच
दुर्गा कवच साधक को नकारात्मक ऊर्जा, बुरी नजर, तंत्र-मंत्र और अदृश्य भय से बचाता है।
🔹 2. भय और तनाव से मुक्ति
जो लोग निरंतर डर, चिंता या मानसिक अस्थिरता से ग्रस्त रहते हैं, उन्हें इस कवच से विशेष शांति मिलती है।
🔹 3. शत्रु बाधा और संकट निवारण
शत्रुओं, विरोधियों और जीवन की बाधाओं से रक्षा के लिए यह अत्यंत प्रभावशाली माना गया है।
🔹 4. रोग और नकारात्मक प्रभाव से रक्षा
दुर्गा कवच शरीर और मन दोनों पर पड़ने वाले नकारात्मक प्रभावों को शांत करता है।
🔹 5. आत्मबल और आत्मविश्वास में वृद्धि
नियमित पाठ से आत्मबल बढ़ता है और कठिन परिस्थितियों का सामना करने की शक्ति मिलती है।
🔹 6. साधना और आध्यात्मिक उन्नति
यह कवच साधक की साधना को मजबूत करता है और माँ दुर्गा की विशेष कृपा प्रदान करता है।
देवी दुर्गा कवच
(Durga Kavach Lyrics in Sanskrit)
ॐ अस्य श्रीचण्डीकवचस्य ब्रह्मा ऋषिः ।
अनुष्टुप् छन्दः ।
चामुण्डा देवता ।
अङ्गन्यासोक्तमातरो बीजम् ।
दिग्बन्धदेवतास्तत्त्वम् ।
श्रीजगदम्बाप्रीत्यर्थे सप्तशतीपाठाङ्गत्वेन जपे विनियोगः ॥
ॐ नमश्चण्डिकायै ॥
मार्कण्डेय उवाच
यद्गुह्यं परमं लोके सर्वरक्षाकरं नृणाम् ।
यन्न कस्यचिदाख्यातं तन्मे ब्रूहि पितामह ॥ १ ॥
ब्रह्मोवाच
अस्ति गुह्यतमं विप्र सर्वभूतोपकारकम् ।
देव्यास्तु कवचं पुण्यं तच्छृणुष्व महामुने ॥ २ ॥
प्रथमं शैलपुत्री च द्वितीयं ब्रह्मचारिणी ।
तृतीयं चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम् ॥ ३ ॥
पञ्चमं स्कन्दमातेति षष्ठं कात्यायनीति च ।
सप्तमं कालरात्रिश्च महागौरीति चाष्टमम् ॥ ४ ॥
नवमं सिद्धिदात्री च नवदुर्गाः प्रकीर्तिताः ।
उक्तान्येतानि नामानि ब्रह्मणैव महात्मना ॥ ५ ॥
अग्निना दह्यमानस्तु शत्रुमध्ये गतो रणे ।
विषमे दुर्गमे चैव भयार्ताः शरणं गताः ॥ ६ ॥
न तेषां जायते किञ्चिदशुभं रणसंकटे ।
नापदं तस्य पश्यामि शोकदुःखभयं न हि ॥ ७ ॥
यैस्तु भक्त्या स्मृता नूनं तेषां सिद्धिः प्रजायते ।
ये त्वां स्मरन्ति देवेशि रक्षसे तान्न संशयः ॥ ८ ॥
प्रेतसंस्था तु चामुण्डा वाराही महिषासना ।
ऐन्द्री गजसमारूढा वैष्णवी गरुडासना ॥ ९ ॥
माहेश्वरी वृषारूढा कौमारी शिखिवाहना ।
लक्ष्मीः पद्मासना देवी पद्महस्ता हरिप्रिया ॥ १० ॥
श्वेतरूपधरा देवी ईश्वरी वृषवाहना ।
ब्राह्मी हंससमारूढा सर्वाभरणभूषिता ॥ ११ ॥
नानाभरणशोभाढ्या नानारत्नोपशोभिता ॥ १२ ॥
दृश्यन्ते रथमारूढा देव्यः क्रोधसमाकुलाः ।
शङ्खं चक्रं गदां शक्तिं हलं च मुसलायुधम् ॥ १३ ॥
खेटकं तोमरं चैव परशुं पाशमेव च ।
कुन्तायुधं त्रिशूलं च शार्ङ्गमायुधमुत्तमम् ॥ १४ ॥
दैत्यानां देहनाशाय भक्तानामभयाय च ।
धारयन्त्यायुधानीत्थं देवानां च हिताय वै ॥ १५ ॥
महाबले महोत्साहे महाभयविनाशिनि ॥ १६ ॥
त्राहि मां देवि दुष्प्रेक्ष्ये शत्रूणां भयवर्धिनि ।
प्राच्यां रक्षतु मामैन्द्री आग्नेय्यामग्निदेवता ॥ १७ ॥
दक्षिणेऽवतु वाराही नैर्ऋत्यां खड्गधारिणी ।
प्रतीच्यां वारुणी रक्षेद् वायव्यां मृगवाहिनी ॥ १८ ॥
उदीच्यां रक्ष कौबेरी ऐशान्यां शूलधारिणी ।
ऊर्ध्वं ब्रह्माणी मे रक्षेदधस्ताद्वैष्णवी तथा ॥ १९ ॥
एवं दश दिशो रक्षेच्चामुण्डा शववाहना ।
जया मे चाग्रतः स्तातु विजया स्तातु पृष्ठतः ॥ २० ॥
अजिता वामपार्श्वे तु दक्षिणे चापराजिता ।
शिखामुद्योतिनी रक्षेदुमा मूर्ध्नि व्यवस्थिता ॥ २१ ॥
मालाधरी ललाटे च भ्रुवौ रक्षेद्यशस्विनी ।
त्रिनेत्रा च भ्रुवोर्मध्ये यमघण्टा च नासिके ॥ २२ ॥
शङ्खिनी चक्षुषोर्मध्ये श्रोत्रयोर्द्वारवासिनी ।
कपोलौ कालिका रक्षेत्कर्णमूले तु शांकरी ॥ २३ ॥
नासिकायां सुगन्धा च उत्तरोष्ठे च चर्चिका ।
अधरे चामृतकला जिह्वायां च सरस्वती ॥ २४ ॥
दन्तान् रक्षतु कौमारी कण्ठमध्ये तु चण्डिका ।
घण्टिकां चित्रघण्टा च महामाया च तालुके ॥ २५ ॥
कामाक्षी चिबुकं रक्षेद्वाचं मे सर्वमङ्गला ।
ग्रीवायां भद्रकाली च पृष्ठवंशे धनुर्धरी ॥ २६ ॥
नीलग्रीवा बहिःकण्ठे नलिकां नलकूबरी ।
स्कन्धौ खड्गधारिणी बाहू मे वज्रधारिणी ॥ २७ ॥
हस्तयोर्दण्डिनी रक्षेदम्बिका चाङ्गुलीषु च ।
नखाञ्छूलेश्वरी रक्षेत्कुक्षौ रक्षेन्नलेश्वरी ॥ २८ ॥
स्तनौ रक्षेन्महालक्ष्मी मनः शोकविनाशिनी ।
हृदयं ललिता देवी उदरं शूलधारिणी ॥ २९ ॥
नाभौ च कामिनी रक्षेद्गुह्यं गुह्येश्वरी तथा ॥ ३० ॥
कट्यां भगवती रक्षेज्जानुनी विन्ध्यवासिनी ।
जङ्घे महाबला रक्षेत्सर्वकामप्रदायिनी ॥ ३१ ॥
गुल्फयोर्नारसिंही च पादौ च नित्यतेजसी ।
पादाङ्गुलीषु श्री रक्षेत्पादाधस्तलवासिनी ॥ ३२ ॥
नखान् दंष्ट्राकराली च केशांश्चैवोर्ध्वकेशिनी ।
रोमकूपेषु कौबेरी त्वचं वागीश्वरी तथा ॥ ३३ ॥
रक्तमज्जावसामांसान्यस्थिमेदांसि पार्वती ।
अन्त्राणि कालरात्रिश्च पित्तं च मुकुटेश्वरी ॥ ३४ ॥
पद्मावती पद्मकोशे कफे चूड़ामणिस्तथा ।
ज्वालामुखी नखज्वाला अभेद्या सर्वसन्धिषु ॥ ३५ ॥
शुक्रं ब्रह्माणी मे रक्षेच्छायां छत्रेश्वरी तथा ।
अहंकारं मनो बुद्धिं रक्षेन्मे धर्मचारिणी ॥ ३६ ॥
प्राणापानौ तथा व्यानमुदानं च समानकम् ।
वज्रहस्ता च मे रक्षेत्प्राणं कल्याणशोभना ॥ ३७ ॥
रसे रूपे च गन्धे च शब्दे स्पर्शे च योगिनी ।
सत्त्वं रजस्तमश्चैव रक्षेन्नारायणी सदा ॥ ३८ ॥
आयूं रक्षतु वाराही धर्मं रक्षतु वैष्णवी ।
यशः कीर्तिं च लक्ष्मीं च धनं विद्यां च चक्रिणी ॥ ३९ ॥
गोत्रमिन्द्राणी मे रक्षेत्पशून्मे रक्ष चण्डिके ।
पुत्रान् रक्षेन्महालक्ष्मीर्भार्यां रक्षतु भैरवी ॥ ४० ॥
पन्थानं सुपथा रक्षेन्मार्गं क्षेमकरी तथा ।
राजद्वारे महालक्ष्मीर्विजया सर्वतः स्थिता ॥ ४१ ॥
रक्षाहीनं तु यत्स्थानं वर्जितं कवचेन तु ।
तत्सर्वं रक्ष मे देवि जयन्ती पापनाशिनी ॥ ४२ ॥
पदमेकं न गच्छेत्तु यदीच्छेच्छुभमात्मनः ।
कवचेनावृतो नित्यं यत्र यत्रार्थी गच्छति ॥ ४३ ॥
तत्र तत्रार्थलाभश्च विजयः सार्वकामिकः ।
यं यं कामयते कामं तं तं प्राप्नोति निश्चितम् ।
परमैश्वर्यमतुलं प्राप्स्यते भूतले पुमान् ॥ ४४ ॥
निर्भयो जायते मर्त्यः संग्रामेष्वपराजितः ।
त्रैलोक्ये तु भवेत्पूज्यः कवचेनावृतः पुमान् ॥ ४५ ॥
इदं तु देव्याः कवचं देवानामपि दुर्लभम् ।
यः पठेत्प्रयतो नित्यं त्रिसन्ध्यं श्रद्धयान्वितः ॥ ४६ ॥
दैवी कला भवेत्तस्य त्रैलोक्येऽपराजितः ।
जीवेद्वर्षशतं साग्रमपमृत्युविवर्जितः ॥ ४७ ॥
नश्यन्ति व्याधयः सर्वे लूताविस्फोटकादयः ।
स्थावरं जङ्गमं वापि कृत्रिमं चापि यद्विषम् ॥ ४८ ॥
आभिचाराणि सर्वाणि मन्त्रयन्त्राणि भूतले ।
भूचराः खेचराश्चैव जलजाश्चोपदेशिकाः ॥ ४९ ॥
सहजाः कुलजा मालाः शाकिनी डाकिनी तथा ।
अन्तरिक्षचरा घोरा डाकिन्यश्च महाबलाः ॥ ५० ॥
ग्रहभूतपिशाचाश्च यक्षगन्धर्वराक्षसाः ।
ब्रह्मराक्षसवेतालाः कूष्माण्डा भैरवादयः ॥ ५१ ॥
नश्यन्ति दर्शनात्तस्य कवचे हृदि संस्थिते ।
मानोन्नतिर्भवेद्राज्ञस्तेजोवृद्धिकरं परम् ॥ ५२ ॥
यशसा वर्धते सोऽपि कीर्तिमण्डितभूतले ।
जपेत्सप्तशतीं चण्डीं कृत्वा तु कवचं पुरा ॥ ५३ ॥
यावद्भूमण्डलं धत्ते सशैलवनकाननम् ।
तावत्तिष्ठति मेदिन्यां संततिः पुत्रपौत्रिकी ॥ ५४ ॥
देहान्ते परमं स्थानं यत्सुरैरपि दुर्लभम् ।
प्राप्नोति पुरुषो नित्यं महामायाप्रसादतः ॥ ५५ ॥
लभते परमं रूपं शिवेन सह मोदते ॥ ॐ ॥ ५६ ॥
॥ इति देव्याः कवचं सम्पूर्णम् ॥
Know More- Durga Saptashati
❓ Frequently Asked Questions (FAQ)
Q1. What is Shree Durga Kavach?
Answer:
Shree Durga Kavach is a powerful Sanskrit hymn from the Durga Saptashati that acts as a divine protective shield, invoking Maa Durga for safety, strength, and blessings.
Q2. What is the importance of Durga Kavach?
Answer:
Durga Kavach is believed to protect the devotee from fear, negative energies, enemies, diseases, and unexpected troubles by surrounding them with divine protection.
Q3. When should Durga Kavach be recited?
Answer:
Durga Kavach can be recited daily, especially in the early morning. It is highly auspicious to recite it during Navratri or before starting Durga Saptashati path.
Q4. Can Durga Kavach be read without Durga Saptashati?
Answer:
Yes, Durga Kavach can be read independently. However, traditionally it is recited before Durga Saptashati for complete spiritual protection.
Q5. Who can recite Durga Kavach?
Answer:
Anyone can recite Durga Kavach with faith and devotion. There are no restrictions based on age or gender.
Q6. Is Durga Kavach effective for protection?
Answer:
According to scriptures, regular recitation of Durga Kavach provides mental strength, spiritual protection, and relief from fear and negativity.
Q7. In which language is Durga Kavach written?
Answer:
Durga Kavach is originally written in Sanskrit and is traditionally chanted in its original language for maximum spiritual benefit.
Q8. How many times should Durga Kavach be recited?
Answer:
Durga Kavach can be recited once daily. Some devotees recite it three times a day with devotion for enhanced spiritual benefits.



